Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam Jai SriRam

Prameya Navaratnamaalika (Anu-Madhwa vijaya by Sri Narayana panditacharya



*************PRAMEYA NAVAMALIKA (ANU-MADHWAVIJAYA)****************:



Sri Narayana Panditachaya,  son of Sri Trivikramapanditacharya is the author of 'Madhwavijaya'.  He has also written 'Anu Madhvavijaya',  which covers all the important topics of 'Madhwavijaya' in brief.  'Prameya Navamaalika of 'Anu-Madhwavijaya' explains the 32 thirty two attributes of Acharya Madhwa.  






श्रीश-प्रीत्यै प्र-जातः सु-महित-महिमा श्री-हनूमान् निदेशाद् रामस्योल्लङ्ग्विताब्धिः  स हरिरथ गतः न्मररथताः सेतुना पिष्ट -दुष्टः । भ्रूभृन्नी रावणारि पुर-गमुरु-दयं  पूजयित्वा स-सीतं पश्यन् किंपूरुषे  तं सततमपि  महाप्राण-मुख्योऽ-वतान्माम् ॥1॥

भीमोSभूद् यो नभेध्यश्चश्र्वकित -रिपु-कृतापत् -प्रतारी सलीलं रक्षो-घ्नः प्राप्त-कृष्णो मख-कृदुत वने दुष्ट-हा कीचक-घ्नः। हत्वा दुर्योधनादीन् स्व-पदमुप -गतो यद्-विषः  क्रोध-तन्त्राः भूत्वा भूमौ कु-शास्त्रं व्यधिषत मणिमत्-पूर्वकााः पातु सोSस्मान् ॥2॥

अज्ञानोत्सादनार्थ सुर-वर-वचसा सूचितो रूप्य-भर्त्रा जातो मध्यालयार्याद्-गुरु-मति -तिपसो वासु-देवाभिधानः। गो-दात्रे मोक्ष-दाता रजत-पति -पदा-सेवको भूत-भर्त्रा मान्यः प्राणः कुल-स्थैरपि निज-सहजा-तर्पितः प्रीयतां मे ॥ 3 ॥

आनन्दं मन्द-हासामृत-रस-कलया सन्-दधानः प्राजानां आस्येन्दोाः शोभमानैरपि कल-वचनैर्बाल-लीला-विलासैः। गो-पुच्छालम्बनाध्यैर्व्रुष-पति विहितापत् प्र -णोदी प्र-णुद्याद् अज्ञानाध्यापदं मे स्वयमिव भगवान् वासु-देवोऽसु-देवाः॥ 4 ॥

एकाकी योजनाभ्यां  व्यवहितमगमद्-यस्त्रि-वर्षो -Sमरौको यो लोक-मात्रा स्व-लिपि-परिचये तात-विस्मेरता -कृत्। प्राज्ञं-मन्यं शिवाख्यं परिषदि जितवान् शाखि -नामरथ -मूचे दुर्ग पित्रोपनीतः सुर-वर-महितो मह्यतां मे वचोभिः  ॥ 5 ॥


पयान्मां यो  भुजङ्गं सदरिमदमयद्-रागुपाध्याय -सेवी विश्र्वेभ्यो वेग-दूर-प्लवन-विधि नियुद्वदि -वीर्यातिशायी । योनास्ता मूढ-शङ्का श्रुति-शुचि-वचसाSलं गुरोः शीर्ष-शूला सख्युर्नारायण-ज्ञोSथ य  उपनिषदं व्याख्यतास्मै सुरार्थ्यः  ॥ 6 ॥

संन्यासे बद्व -बुद्विः  कृत-हरि -नमनः  पार्थ -पूज्यं यतिं  प्राक् प्राज्ञं गुवाज्ञयाSलं सु-गुण-हरि-विदं  सत्-तपस्तृप्त-देवम्। प्राप्तं सर्वज्ञ-शिष्याख्यवरमुप -गतो द्विः  स्व-तातं निर्षेद्धुं प्राप्तं चानुत्तरं यो व्यधित  सहजवान् मातरं चावतान्माम्॥ 7 ॥

पूर्ण -प्रज्ञाख्य आसीद्-यति -कुल-तिलको यः शुभाचार ईश- प्रत्तोSस्मा ईश्वराज्ञा-गत-सुर-सरिति  स्नान-कृज्जैत्र -पत्रः  । दुष्पध्य - च्छिच्च लोके प्रवचन-चतुरः  सत् –पुराणोतिहास - स्योक्त्तौ - मेधा-प्रदर्शी  दिशतु शुभ-दृशं मह्यमृज्वग्रणीः  सः        ॥ 8 ॥

साक्षादान्द-तीथोSनु-मितिभिरुरु-जिद्- योSनुमा-तीरथ -नामा बुध्व्यब्धिं वादि -सिंहं सपदि विजतवान् दुष्ट -भाष्योपि -नोदी। अच्छेद्योक्तिः  प्र-मोदं पितुरपि  कृतवान् नर्म -गर्भ गुरुक्तो भाष्यं कर्तु  ह्यवोचत् प्रिय -सख-यतये  सूत्र -भावं स माऽव्यात्     ॥ 9 ॥

याम्याज्ञां यान् प्र -भोक्त्ता बहु -फलसमितेः क्षीरिणीं प्रेक्ष्य यान्तीं स्यानन्दूरं च वादी  र्हु-फलसन्ममतेाः क्षीन्मरणीं प्रेक्ष्य रान्तीं स्यानन्दूरं च दैत्यं सपदि विजितवान् फाल्गुनं तीरथमाप्तः । सेतुं चात्रापि हास्यं खलमथ कृतवान् सर्व -जिद् -रङ्ग-नाथं नत्वा यान् विश्व -वन्ध्यो -ह्युप -नदि  विभुधौकस्यवेन्मां स धन्यः 
॥ 10 ॥

विश्वादीनां शतारथ -प्रवचन-चतुरो धान-सूक्तारथ -वादी ।दिव्य -ज्ञान-प्रकाशी सकलजिदखिल -ज्ञाब्धिःप्राप्त-रूप्यः । भीमो वा भीम-सन्धः खल-कुल-दमने गीतिका-भाष्य-कारी गुर्वर्ची यानुदीर्ची मम मनसि लसेत् तीरथ -शोधी स मध्वः  ॥ 11 ॥


गङ्गा-तारी सुकर्मोपगत -बदरिकान्तोSत्र  नारायणं यो नत्वैकान्ते समुधयत्-प्रवचन-कृदथो सत्-तपाः  कृष्ण-नुन्नः। आप्तोभ्यः कार्य -लेखी स्वमनु-गत-निज -प्रेरकः प्राणि -मात्रा - न्मारुत्याभः  प्र-प्रश्यन् हरिमपि गिरिणा सार्धमृधवै स मे स्यात् ॥ 12 ॥

योSपश्यत् स्वाश्रमाग्र्यं मुनि -महित-गुणो दिव्य -सालं च चित्रं तत्रर्षीणां समाजे हरिमपि मुनितः सत्यवत्यां प्रजातम्। कर्तारं  भारतादेर्भरत -वर-गुरुं ब्रह्म-सूत्रस्य चाहो निर्दोषं नित्यपूर्णगणित -गुणमसौ प्रीयतां मे स चेशः  ॥ 13 ॥

सर्वाङ्गैः  सर्व-वंध्यैविमल-कुवलय-श्यामलैः शोभमानं सज्ञानानन्द-तेजः -प्रवर-गुण-मयैः पूर्ण-लावण्य-रुपैः ।बिम्बोष्ठं पद्म-पादं शुभ-कपिश-जटं सैण-चर्माणमीशं दृष्ट्वा-नत्वोप-गूढः स गुरुरवतु नः सूपविष्टो  मुनीष्टः 
 ॥ 14 ॥

शिष्यं व्यासस्य नारायणमथ च गतं सर्व-सेतुं सु-मत्स्यं साश्रास्यं कूर्म-कोलौ नृ-हरिमथ मनुं वामनं बुद्ध-रामौ। व्यासं काकुत्स्थ-कृष्णावति-चिरमितरा-नन्दनं कल्कि-यज्ञौ सिद्धेशं नौमि धन्वन्तरि  -वर -वनिताख्यं - तमेनं स्मरन्तम् ॥ 15 ॥

दत्तात्रेयं  कुमारं हृदि दधदृषभं हंस-कृष्णौ हरि तं  धार्म नारायणाख्यं स-दश-शत-सहस्रा-ध्यानन्तावतारम्। तन्नुन्नस्तत्त्व-सूक्त्यै वरमुचित-नरैरेष सेव्यत्वमाप्तः  कृच्छ्राध्यात्रोन्मुखो मे स गतिरपि हरिर्व्यास नारायणाख्यः ॥ 16 ॥

लब्ध्वाऽनुज्ञां मुकुन्दात् स्वजन-मुपि -गतोSनेक-भिक्षा-प्रभोक्ताऽ- तुल्यं भाष्यं च कुर्वन् स्व-सम-गुण-गणं सम्-प्रयातः पुनर्यान्। षट्छास्त्राशेष-शाखास्वखिल-विजयवान् शोभनं सूरि -वर्य शिष्यं लब्ध्वाऽति -जैत्रं पुनरपि विविधान् प्राप्त-रूप्यो गतिर्मे  ॥ 17 ॥

सख्ये व्याख्याय भाष्यं कलि -मलमप -नीयाच्युत-ज्ञाय चालं काष्र्णीमर्चामचाल्यां त्रि -दशक-तरुणै-र्लीलयाऽऽनीय रूप्ये। आस्थाप्योदस्य यज्ञ-प्रति-हति -निरतान् कारयित्वा स्व-यज्ञं व्यासं नत्वा पुनश्र्व प्रति -गत-रजतः  सम्-प्रसीदेत् स मध्वः    ॥ 18 ॥

सागस्त्वादीश-देवं पर-वश-खननं यो  व्यधादप्लवः  स्वैः  गङ्गा-तारी स्व-नीत्या वशित-यवन-राड् वर्त्मनि क्कापि चोरान्। हन्तुं यातान् मिथोSहन् क्कचिदपि  निज- शिष्येण चाद्रावयद् राक् योगेनाभूच्छिलाभः ककचिदपि सगणस्तं महेक्षं दिदृक्षे   ॥ 19 ॥

दैत्य-व्याघ्रोिप-घाती नर-सख-करतो लब्ध-गौरोपलार्चो व्यासाज्ञा-हृत् सु-तर्ता लघु सुर-सरितो  वारि--संस्तम्भ-योगात्। भित्वा भूमिं  ध्यु -नध्या  मठमुप-गतया वन्दितो मूर्तिमत्या यूनोSनेकान् विजिग्ये  युगपदपि  गतान् यः सलीलं तमीडे ॥ 20 ॥

स्वर्गाह्वोक्त्ति -प्रखण्डी सकल-समयि -जिद् व्याख्ययाSभात् पुराऽऽजौ शिष्याणामारुधानि प्रकटयति पुरा पूजितः शूलिनाSभूत्। प्रत्यक्षेण क्वचिध्यो दश-शत-गुरु-रम्भा-पयो -भुक् क्षणात् सद्- गानात् पुष्पादि -कारीत्यभिहित -चरितो  यः शुभैस्तं प्र-पध्ये  ॥ 21 ॥

व्याख्यां श्रुत्वा मुनिभ्योSभ्यधित  समयतो यस्य लभ्यं फणींद्रो वैकुण्ठं हेम -नाना-मणि -मय -सदनं श्रीश-धामास्त-दोषम्। सारुज्याध्याप्त-सौख्यैरखिल विशियिभिः सुन्दरी-भोग-भाग्भिः  ब्रह्माध्यैर्नाथ -दृग्भिर्वि  लसितमतुलं सोSनु-गृह्णातु नोSलम् ॥ 22 ॥

नाना-दुर्नीति -वादैर्विहितमुरुमदं मायि -भूतासुरेन्द्रैः योSयं वेदान्ति -सिंहो व्यजयत  कु-रवं पुण्डरीकं च काण्डम्।  विश्र्वाश्र्वर्य -प्रकारं प्रवचनमकरोद्-छन्दसां यत् स्वृधाऽन्यः  तत् कुर्वन् हास्य आसीद् द्विज-वर-निकरे स्याम तद्-दास-दासाः ॥ 23 ॥

पद्माख्यं सिन्धु -राजं प्रिय -जन-परमागस्कृतं प्राप्य भीतेः  अन्यान् कुर्वाणमग्रे सपदि नि -जगृहे  गो-गणैर्मध्व-पार्थः  । यो  यद्-दासोक्ति -बाणै -र्विदलित -हृदया दुद्रुवु-र्मायि -दैत्याः विश्र्वज्ञाह्वो हरिर्यो जगति विजयते  स प्र-दध्याज्जयं नः  ॥ 24 ॥

श्री-कान्ताङ्घ्रि -प्रसङ्गादिधक -शुचि -तमो यान्-यथा गाङ्ग ओघो राज्ञा सं-वन्दिताङ्घ्रिः सकल-गुण-गणोिेपेत-पदादि -कान्तः । सवेषां दर्शनीयो लिकुच-कुल-भवो वेद-शास्त्रादि  वेदी। प्रापायुग्-विक्रमार्यो यमाखिल -गुरुमानन्द-तीर्थ प्र-वन्दे   ॥ 25 ॥

लब्ध -ग्रन्थः  स्तुतोSलं लिकुच-कवि -वरेणोह निन्ये दिनानि श्री-भर्तुः प्रीति -वृद्ध्यै विविध -शुभ-कृतीः  केवलं यस्तु कुर्वन्। निर्लेपो  दग्ध-कर्मा मति-कृति -करणैर्लोक -शिक्षां च कर्तु  देवैर्वृष्टामृतार्चः  प्रवचन-चतुरो मे प्र-वक्तृत्व-दः  स्यात्   ॥ 26 ॥

स्त्रातो देवाभि-षेक्त्ता सदरि-दर-धरस्तन्त्र -शास्त्रानु-वृत्या। सम्यक् सम्-पूज्य विष्णु वर-तुळसिकया दर्शनीयोSथ भुक्त्वा। नाना-लोकाभि-नन्दी गुरुरथ विलसद् -व्याख्यया सान्ध्य-कृत्यं कृत्वा गोविंद -लीला-कथक उत-कथां वैष्णवीं वाचयेन्नः    ॥ 27 ॥

मान्योप -न्यास -धन्यो हरि-राखिल-गुणो ब्रह्मवेदैक-वेध्यः कर्ता विश्र्वस्य मोक्षं शुभ-सुख-विषयं राति  भक्तेभ्य  इत्थम्। सत्-तर्कैः  साधयित्वा  श्रुति -शत-सहितैः  सूरि -सूनुं विजित्य व्याख्याता तस्य पूर्ण -णय-प्रमतिरनु -दिनं  व्याख्ययाऽऽप्याय्येन्माम् ॥28 ॥

साम्नस्त्रैविक्रमार्याद् व्यरचयदनु-भाष्यं शत-ग्रन्थ-कर्ता  सोदर्य  स्वं वि-रक्त्तं यतिमकृत महा -सद्-गुणं विष्णु-तीर्थम्  । वादीन्द्रं पद्मनाभं प्रियमथ च परान् सद्-गुणान्  श्र्लाघ्य -शिष्यान् योSनेकान् सद्-गृहस्थानपि स वि -जयते  कण्व-तीर्थान्तिक-स्थः  ॥ 29 ॥

सं-स्तव्यो वेद-मानं समवितुमतनोदोषधीर्यः  क्षणान्ते दीप्ताङ्गुष्ठः  शिला-नीाः श्रुति -विवरण-कृद् वर्णितः स्तम्भिताब्धिः । अङ्गुल्या गण्ड-वाटावतुल-बल -चणौ चालने यस्य नालं प्राग् वाटो वा वटूढो मम मनसि  लसेदप्य-लाव्यैक-लोमा॥ 30॥

पारन्तीशाभि -नन्दी सपदि च सरितामन्तरेSवर्षयद् यो ग्रीष्मे मित्रीचकाराप्यहितमथ गतो वैध्य-नाथं स्व-भूत्यै। छन्दः खण्डार्थ -वादी जित -कुमति -कुलो दुर्जने-ष्र्याभ्युपेक्षी लघ्वन्नं  बृंहयेदत्त्यपि  बहु धनिनामलप -कल्पेन तुष्येत् ॥ 31 ॥

वृष्ट्यादीनां  नियन्तेत्यभि -हित -चरितः सर्व -गीर्वाण-रत्नैः गन्धर्वैर्गीयमानो ध्यु -सदसि सकलैः  कौतुकाद्-गम्यमानः । दृष्ट्वा सं-स्तूयमानः  सुर-तरु-कुसुमैरार्य  आ-कर्यमाणो मध्वो- जाज्वल्यतेSसौ जगति विजयते सत्-सभा-मङ्गलाय  ॥ 32 ॥

दश-प्रमति -विक्रमं बहु -विधात्मना हेमवत् 
समध्व-विजयाभिधं  व्यधित भाव-दीपाह्वयम्। 
प्रमेय -नव-मालिकां पुनरिमां च दक्षां चितां
 सतां श्रवण-भूषणं व्यदधदेष नारायणः  

                इति  श्रीमत्-विक्रमपण्डिताचार्य -सुत नारारण-पण्डिताचार्य -विरचित  प्रमेय -नव-मालिका ।


                                                                               ||जय हनुमान ||

1 comment:

  1. PLEAS PROVIDE THE SAM IN KANNADA FORMAT WILL BE USEFUL TO MAJORITY

    ReplyDelete

Note: only a member of this blog may post a comment.